Thursday, April 9, 2015

श्लोकद्वयं प्राचीनकविकृतम्

उत्तिष्ट भैरवस्वामिन् काशिकापुरपालक |
श्रीविश्वनाथभक्तानां संपूरय मनोरथम् || १||
स्नानाय गाङ्गसलिलेऽथ समर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः |
श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातम् || २||
यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदाऽसि |
कारुण्यपूरमयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रभातम् || ३||
दुग्धप्रवाहकमनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्गे |
नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातम् || ४||
वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेऽष्टफलदानसमर्थमूर्ते |
उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातम् || ५||
पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम् |
गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातम् || ६||
कात्यायनी प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे |
ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातम् || ७||
प्रातः प्रसीद विमले कमलायताक्षि कारुण्यपूर्णहृदये नमतां शरण्ये |
निर्धूतपापनिचये सुरपूजितांघ्रे श्रीविश्वनाथदयिते तव सुप्रभातम् || ८||
सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम् |
सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातम् || ९||
सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान् भुवि मर्त्यवर्गः |
तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातम् || १०||
श्रीकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ |
उत्तिष्ट सर्वजनमङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम् || ११||
गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते |
कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातम् || १२||
श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसमलंकृतभव्यचूड |
भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातम् || १३||
देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग |
नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातम् || १४||
वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते |
त्वय्यर्पितार्जितसमस्तसुरक्षणस्य वाराणसीपुरपते तव सुप्रभातम् || १५||
कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप |
वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातम् || १६||
श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल |
श्रीविश्वनाथमृदुपंकजमंजुपाद श्रीकाशिकापुरपते तव सुप्रभातम् || १७||
काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या |
विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातम् || १८||
श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि |
वाचं तवैव यशसाऽनघ भूषयामि वाराणसीपुरपते तव सुप्रभातम् || १९||
नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि |
गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातम् || २०||
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ||
ॐ मङ्गलं भगवान् शम्भो मङ्गलम् वॄषभध्वज |
मङ्गलं पार्वतीनाथ मङ्गलं भक्तवत्सल ||
| एतत् श्लोकद्वयं प्राचीनकविकृतम् |

No comments:

Post a Comment