॥ अथ श्री शिवाष्टकं ॥
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं
शम्भुमीशानमीडे ॥ १॥
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं
शम्भुमीशानमीडे ॥ १॥
गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं
शङ्करं शम्भुमीशानमीडे ॥ २॥
महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं
शङ्करं शम्भुमीशानमीडे ॥ २॥
मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं
भस्मभूषधरन्तम् ।
अनादिह्यपारं महामोहहारं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ३॥
भस्मभूषधरन्तम् ।
अनादिह्यपारं महामोहहारं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ३॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं
शम्भुमीशानमीडे ॥ ४॥
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं
शम्भुमीशानमीडे ॥ ४॥
गिरिन्द्रात्मजासङ्ग्रहीतार्धदेहं
गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ५॥
गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ५॥
कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ६॥
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ६॥
शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं
पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ७॥
पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं
शङ्करं शम्भुमीशानमीडे ॥ ७॥
हरं सर्पहारं चिता भूविहारं भवं वेदसारं
सदा निर्विकारम् ।
श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं
शम्भुमीशानमीडे ॥ ८॥
सदा निर्विकारम् ।
श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं
शम्भुमीशानमीडे ॥ ८॥
स्तवं यः प्रभाते नरः शूलपाणे पठेत्
सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं
समासाद्य मोक्षं प्रयाति ॥ ९॥
सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं
समासाद्य मोक्षं प्रयाति ॥ ९॥
॥ इति शिवाष्टकम् ॥
No comments:
Post a Comment