Thursday, April 9, 2015

श्रीमृत्युञ्जय मानसिक पूजास्तोत्रम.ह

श्रीमृत्युञ्जय मानसिक पूजास्तोत्रम.ह
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम.ह ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालंकृतशेशभूशणममुं मृत्युञ्जयं भावये ॥ १॥
आगत्य मृत्युञ्जय चन्द्रमौले
व्याघ्राजिनालंकृत शूलपाणे ।
स्वभक्तसंरक्शणकामधेनो
प्रसीद विश्वेश्वर पार्वतीश ॥ २॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुधालंकृते
सौधे धूपसुवासिने मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३॥
मन्दारमल्लीकरवीरमाधवी\-
पुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै\-
राधत्स्व मृत्युञ्जय पाद्यमुत्तमम.ह ॥ ४॥
सुगन्धपुश्पप्रकरैः सुवासितै\-
र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा\-
द्गृहाण मृत्युञ्जय सर्ववन्दित ॥ ५॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ ६॥
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वितधेनुदुग्धयुक्तम.ह ।
शुभकरमधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७॥
पञ्चास्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ ८॥
जगत्रयीख्यात समस्ततीर्थ\-
समाहृतैः कल्मशहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं
मृत्युञ्जयानन्दगुणाअभिराम ॥ ९॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात.ह ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ १०॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११॥
विशिद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चनहेमसूत्रम.ह ।
यघ्य़्नोपवीतं परमं पवित्र\-
माधत्स्व मृत्युञ्जय भक्तिगम्य ॥ १२॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचित्तं मन्दारसंवासितम.ह ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेशु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ १३॥
अक्शतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृशध्वज ॥ १४॥
चम्पकपङ्कजकुन्दैः
करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं
मृत्युञ्जय पुण्डरीकनयनाप्त ॥ १५॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सद्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ १६॥
माणिक्यकेयूरकिरीटहारैः
काञ्चीमणिस्थापितकुद्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोघ्य़ै\-
रङ्गानि मृत्युञ्जय भूशयामि ॥ १७॥
गजवदनस्कन्दधृते\-
नातिस्वच्चेन चामरयुगेन ।
गलदलकाननपद्मं
मृत्युञ्जय भावयामि हृत्पद्मे ॥ १८॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्जनदण्डयुक्तम.ह ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय ते.अर्पयामि ॥ १९॥
मणिमुकुरे निश्पटले
त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटीसदृशं
मृत्युञ्जय पश्य वदनमात्मीयम.ह ॥ २०॥
कर्पूरचूर्णं कपिलाज्यपूतं
दास्यामि कालेयसमान्वितैश्च ।
समुद्भवं पावनगन्धधूपितं
मृत्युञ्जयाङ्गं परिकल्पयामि ॥ २१॥
वर्तित्रयोपेतमखण्डदीप्त्या
तमोहरं ब्राह्ममथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं
सुरेशा मृत्युञ्जय वंशदीपम.ह ॥ २२॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम.ह ॥ २३॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि
श्रीकण्ठ मृत्युञ्जय भक्शयेश ॥ २४॥
शीतलं मधुरं स्वच्चं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोधृतान्वितम.ह ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६॥
केवलमतिमाधुर्यं
दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं
मृत्युञ्जय देव भुङ्क्श्व परमान्नम.ह ॥ २७॥
रम्भाचूतकपित्थकण्ठकफलैर्द्राक्शारसास्वादुम\-
त्खर्जूरैर्मधुरेक्शुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम.ह ॥ २८॥
मनोघ्य़रम्भावनखण्डखण्डिता\-
न्रुचिप्रदान्सर्शपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९॥
हिङ्गूजीरकसहितं
विमलामलकं कपित्थमतिमधुरम.ह ।
बिसखण्डा{\म+}ल्लावण्ययुता\-
न्मृत्युञ्जय ते.अर्पयामि जगदीश ॥ ३०॥
एलाशुण्ठीसहितं
दध्यन्नं चारुहेमपात्रस्थम.ह ।
अमृतप्रतिनिधिमाढ्यं
मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ ३१॥
जम्बीरनीराञ्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान.ह ।
मृदूपदंशान्सहितोपभुङ्क्श्व
मृत्युञय श्रीकरुणासमुद्र ॥ ३२॥
नागररामठयुक्तं
सुललितजम्बीरनीरसंपूर्णम.ह ।
मथितं सैन्दवसहितं
पिब हर मृत्युञ्जय क्रतुध्वंसिन.ह ॥ ३३॥
मन्दारहेमाम्बुजगन्धयुक्तै\-
र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ॥ ३४॥
गगनधुनीविमलजलै\-
र्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं
प्रक्शालय चारु हस्तपादयुग्मम.ह ॥ ३५॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ ३६॥
मौक्तिकचूर्णसमेतै\-
र्मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानै\-
र्मृत्युञ्जय ते.अर्पयामि ताम्बूलम.ह ॥ ३७॥
नीराजनं निर्मलदीप्त्माद्भि\-
र्दीपाङ्कुरैरुज्ज्वलमुच्च्रितैश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥
विरिञ्चिमुख्यामरवृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूशे पुनरर्घ्यमीश्वर ॥ ३९॥
पुन्नागनीलोत्पलकुन्दजाती\-
मन्दारमल्लीकरवीरपङ्कजैः ।
पुश्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ ४०॥
पदे पदे सर्वमनोनिकृन्दनं
पदे पदे सर्वशुभप्रदायकम.ह ।
प्रदक्शिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्श रक्श माम.ह ॥ ४१॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतिविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्शपितपुरदैत्याय च नमो
नमः फालाक्शाय स्मरमदविनाशाय च नमः ॥ ४२॥
संसारे जनितापरोगसहिते तपत्रयाक्रन्दिते
नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम.ह ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृश्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्चादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्र्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै\-
र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम.ह ।
करोति प्रत्यूशे निशि दिवसमध्ये.अपि च पुमा\-
न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम.ह ॥ ४५॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गतं
मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्शदम.ह ।
भानोरस्तमने प्रदोशसमये पञ्चाक्शराराधनं
तत्कालत्रयतुल्यमिश्टफलदं सद्यो.अनवद्यं दृढम.ह ॥ ४६॥

No comments:

Post a Comment